Wednesday, June 6, 2018

यः सर्वगुणसम्पूर्णः ।सर्वदोषविवर्जितः ।।प्रियतां प्रीत एवालं ।विष्णुर्मे परमः सुहृत्

यः सर्वगुणसम्पूर्णः ।
सर्वदोषविवर्जितः ।।
प्रियतां प्रीत एवालं ।
विष्णुर्मे परमः सुहृत् ।।

पदच्छेदः पदपरिचयशास्त्रं च ।👉
👉


यः - दकारान्तपुल्लिङ्गस्य यद् शब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

सर्वगुणसम्पूर्णः - अकारान्तपुल्लिङ्गस्य सर्वगुणसम्पूर्णशब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

सर्वाणि च तानि गुणानि सर्वगुणानि ।
सम्यक् पूर्णः सम्पूर्णः ।
सर्वगुणैः सम्पूर्णः सर्वगुणसम्पूर्णः ।

सर्वदोषविवर्जितः - अकारान्तपुल्लिङ्गस्य सर्वदोषविवर्जितशब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

सर्वाः च ते दोषाः च सर्वदोषाः ।
विशेषेण वर्जितः विवर्जितः ।
सर्वदोषेभ्यः विवर्जितः सर्वदोषविवर्जितः ।

प्रियताम् - नकारान्तपुल्लिङ्गस्य (या तकारान्तमपि वर्तते) प्रियन् शब्दस्य षष्ठीविभक्तेः बहुवचनान्तं पदमिदम् ।

प्रीतः - अकारान्तपुल्लिङ्गस्य प्रीत शब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

एव + अलम् - अव्यये ।

विष्णुः - उकारान्तपुल्लिङ्गस्य विष्णुशब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

मे - त्रिषुलिङ्गेषु समस्य दकारान्तस्यअस्मद् शब्दस्य षष्ठीविभक्तेः एकवचनान्तं पदमिदम् ।

परमः - अकारान्तपुल्लिङ्गस्य परम शब्दस्य प्रथमाविभक्तेःएकवचनान्तं पदमिदम् ।

सुहृत् - तकारान्तपुल्लिङ्गस्य सुहृत् शब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम् ।

अन्वयः -👉
👉
यः सर्वगुणसम्पूर्णः, सर्वदोषविवर्जितः प्रियतां अलं प्रीतः एव सः विष्णुः मे परमः सुहृत् अस्ति ।

यः - जो श्रीमन्महाविष्णु जी

सर्वगुणसम्पूर्णः - आनंदादि समस्त सद्गुणों से परिपूर्ण,

सर्वदोषविवर्जितः - दुःख आदि समस्त दोषों से वर्जित

च - तथा

प्रियताम् - प्रेम करने वाले भक्तों के

अलम् - अच्छे

प्रीतः - प्रेमी हैं

सः - वह

विष्णुः एव - श्रीमन्महाविष्णु जी ही

मे - मेरे

परमः - उत्तम

सुहृत् - मित्र

अस्ति - हैं ।

विवरण:-👉
👉
श्रीमन्महाविष्णु जी समस्त सद्गुणों के आकर हैं । और सामान्य मनुष्य या प्राणियों के जैसे दुःख, पीडा जैसे दोष इन से परे रहते हैं । जो भी इन के भक्त बन कर इन को प्रेम करते हैं, उन भक्तों के प्रेम से भी अत्यधिक प्रेम ये प्रदान करते हैं । ऐसे श्रीमन्महाविष्णु जी ही मेरे परम या श्रेष्ठ मित्र हैं ।

।।मनुर्भव।।

No comments:

Post a Comment