पाठयेम संस्कृतं गीतम् -
गीतम् -
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् ॥धृ॥
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेहशक्तिशील-शौर्य देशभक्तिभूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥1॥
हिन्दुबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्य-भेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥2॥
जीवनस्य लक्ष्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीन भावना
साधितास्तु माधवस्य विश्वविजयकामना ॥3॥
पाठयेम संस्कृतं जगति सर्वमानवान्
No comments:
Post a Comment