*_नारदभक्तिसूत्रम्_*
*अध्यायः १*
*पराभक्तिस्वरूपम्*
१. अथातो भक्तिं व्याख्यास्यामः ||
२. सा त्वस्मिन् पर(म)प्रेमरूपा ||
३. अमृतस्वरूपा च ||
४. यल्लब्ध्वा पुमान् सिद्धो भवति, अमृतो भवति, तृप्तो भवति ||
५. यत्प्राप्य न किञ्चिद्वाञ्छति, न शोचति, न द्वेष्टि, न रमते, न उत्साही भवति ||
६. यज्ज्ञात्वा मत्तो भवति, स्तब्धो भवति, आत्मारामो भवति ||
७. सा न कामयमाना निरोधरूपत्वात् ||
८. निरोधस्तु लोकवेदव्यापारन्यासः ||
९. तस्मिन्ननन्यता तद्विरोधिषु उदासीनता च ||
१०. अन्याश्रयाणां त्यागोऽनन्यता ||
(भगवद्गीता- सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज |
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||)
११. लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषु उदासीनता ||
१२. भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् ||
१३. अन्यथा पातित्याशङ्कया ||
१४. लोकोऽपि तावदेव, भोजनादिव्यापारस्त्वाशरीरधारणावधि ||
१५. तल्लक्षणानि वाच्यन्ते नानामतभेदात् ||
१६. पूजादिष्वनुराग इति पाराशर्यः ||
१७. कथादिष्विति गर्गः ||
१८. आत्मरत्यविरोधेनेति शाण्डिल्यः ||
१९. नारदस्तु तदर्पित अखिलाचारता, तद्विस्मरणे परमव्याकुलतेति ||
२०. अस्त्येवमेवम् ||
२१. यथा व्रजगोपिकानाम् ||
(भागवतम् १०|४६)
२२. तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ||(भागवतम् १०|२९|३२,३६)
२३. तद्विहीनं जाराणामिव ||
(भागवतम् १०|२९|४१, १०|३१|४)
२४. नास्त्येव तस्मिन् तत्सुखसुखित्वम् ||
—————
*अध्यायः २*
*पराभक्तिमहिमा*
२५. सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ||
२६. फलरूपत्वात् ||
२७. ईश्वरस्याप्यभिमानद्वेषित्वात्, दैन्यप्रियत्वात् च ||
२८. तस्याः ज्ञानमेव साधनमित्येके ||
२९. अन्योन्याश्रयत्वमित्यन्ये ||
३०. स्वयंपलरूपतेति ब्रह्मकुमारः ||
३१. राजगृहभोजनादिषु तथैव दृष्टत्वात् ||
३२. न तेन राजा परितोषः क्षु (धाशा) च्छान्तिर्वा ||
३३. तस्मात् सैव ग्राह्या मुमुक्षुभिः ||
——————
*अध्यायः ३*
*भक्तिसाधनम्*
३४. तस्याः साधनानि गायन्त्याचार्याः ||
३५. तत्तु विषयत्यागात् संगत्यागाच्च ||
३६. अव्यावृत्त (त) भजनात् ||
३७. लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ||
३८. मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद्वा ||
३९. महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ||
४०. लभ्यतेऽपि तत्कृपयैव ||
४१. तस्मिंस्तज्जने भेदाभावात् ||
४२. तदेव साध्यताम्, तदेव साध्यताम् ||
४३. दुस्सङ्गः सर्वथैव त्याज्यः ||
४४. कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशसर्वनाशकारणत्वात् ||
४५. तरङ्गायिता अपीमे सङ्गात्समुद्रायन्ति ||
४६. कस्तरति कस्तरति मायाम् ? यः सङ्गं त्यजति, यो महानुभावं सेवते, यो निर्ममो भवति ||
४७. यो विविक्तस्थानं सेवते, यो लोकबन्धमुन्मूलयति, निस्त्रैगुण्यो भवति, यो योगक्षेमं त्यजति ||
४८. यः कर्मफलं त्यजति, कर्माणि संन्यस्यति, ततो निर्द्वन्द्वो भवति ||
४९. वेदानपि संन्यस्यति; केवलं अविच्छिन्नानुरागं लभते ||
५०. स तरति स तरति, स लोकांस्तारयति ||
——————
*अध्यायः ४*
*भक्तिलक्षणम्*
५१. अनिर्वचनीयं प्रेमस्वरूपम् ||
५२. मूकास्वादनवत् ||
५३. प्रकाशते क्वापि पात्रे ||
५४. गुणरहितं कामनारहितं प्रतिक्षणवर्धमानम् अविच्चिन्नं सूक्ष्मतरं अनुभवरूपम् ||
५५. तत्प्राप्य तदेव अवलोकयति, तदेव शृणोति,तदेव भाषयति, तदेव चिन्तयति ||
५६. गौणी त्रिधा, गुणभेदादार्तादिभेदाद्वा ||
५७. उत्तरस्मादुत्तरस्मात् पूर्वपूर्वा श्रेयाय भवति ||
५८. अन्यस्मात् सौलभ्यं भक्तौ |य
५९. प्रमाणान्तरस्य अनपेक्षितत्वात्, स्वयं प्रमाणत्वात् ||
६०. शान्तिरूपात् परमानन्दरूपाच्च ||
६१. लोकहानौ चिन्ता न कार्या, निवेदितात्मलोकवेदत्वात् ||
६२. न तत्सिद्धौ लोकव्यवहारो हेयः, किन्तु फलत्यागः तत्साधनं च कार्यमेव ||
६३. स्त्री-धन-नास्तिकचरित्रं न श्रवणीयम् ||
६४. अभिमान-डम्भादिकं त्याज्यम् ||
६५. तदर्पित-अखिल-आचारः सन्, कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् ||
६६. त्रिरूपभङ्गपूर्वकं नित्यदासनित्यकान्ताभजनात्मकं प्रेमकार्यं प्रेमैव कार्यम् ||
—————
*अध्यायः ५*
*भक्तमहिमा*
६७. भक्ता एकान्तिनो मुख्याः ||
६८. कण्ठावरोध-रोमाञ्चाश्रुभिः परस्परं लापमानाः पावयन्ति कुलानि पृथिवीं च ||
६९. तीर्थीकुर्वन्ति तीर्थानि, सुकर्मीकुर्वन्ति कर्माणि, सच्छास्त्रीकुर्वन्ति शास्त्राणि ||
७०. तन्मयाः ||
७१. मोदन्ते पितरो, नृत्यन्ति देवताः, सनाथा चेयं भूर्भवति ||
७२. नास्ति तेषु जाति-विद्या-रूप-कुल-धन-क्रियादिभेदः ||
७३. यतः तदीयाः ||
७४. वादो न अवलम्ब्यः ||
७६. भक्तिशास्त्राणि मननीयानि, तदुद्बोधककर्माणि करणीयानि ||
७७. सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् ||
७८. अहिंसा-सत्य-शौच-दया-आस्तिक्यादि-चारित्र्याणि परिपालनीयानि ||
७९. सर्वदा सर्वभावेन निश्चिन्तैः भगवानेव भजनीयः ||
८०. स कीर्त्यमानः शीघ्रमेवाविर्भवति अनुभावयति च भक्तान् ||
८१. त्रिसत्यस्य भक्तिरेव गरीयसी, भक्तिरेव गरीयसी ||
८२. गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-वात्सल्यासक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा एकधा अपि एकादशधा भवति ||
८३. इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-कौण्डिन्य-शेष-उद्धव-आरुणि-बलि-हनुमद्-विभीषणादयो भक्ताचार्याः ||
८४. य इदं नारदप्रोक्तं शिवानुशासनं विश्वसति, श्रद्धते, स भक्तिमान् भवति, सः प्रेष्ठं लभते सः प्रेष्ठं लभते ||
*_इति नारदभक्तिसूत्रं समाप्तम् ||_*
No comments:
Post a Comment